Original

ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः ।निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः ।अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह ॥ १३ ॥

Segmented

ततः संचुक्रुशुः पार्था ये च तेषाम् पदानुगाः निर्जित्य च रणे शत्रून् नकुलः शत्रु-तापनः अब्रवीत् सारथिम् क्रुद्धो द्रोण-अनीकाय माम् वह

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचुक्रुशुः संक्रुश् pos=v,p=3,n=p,l=lit
पार्था पार्थ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
निर्जित्य निर्जि pos=vi
pos=i
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
नकुलः नकुल pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सारथिम् सारथि pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
माम् मद् pos=n,g=,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot