Original

नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः ।गात्रात्संच्यावयामास तदद्भुतमिवाभवत् ॥ ४ ॥

Segmented

नाकुलि तस्य विशिखैः वर्म संनत-पर्वभिः गात्रात् संच्यावयामास तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
नाकुलि नाकुलि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
वर्म वर्मन् pos=n,g=n,c=2,n=s
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
गात्रात् गात्र pos=n,g=n,c=5,n=s
संच्यावयामास संच्यावय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan