Original

ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः ।यथेन्द्रभयवित्रस्ता दानवास्तारकामये ॥ २४ ॥

Segmented

ततः कर्ण-सुत-त्रस्ताः सोमका विप्रदुद्रुवुः यथा इन्द्र-भय-वित्रस्ताः दानवास् तारका-मये

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्ण कर्ण pos=n,comp=y
सुत सुत pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
सोमका सोमक pos=n,g=m,c=1,n=p
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit
यथा यथा pos=i
इन्द्र इन्द्र pos=n,comp=y
भय भय pos=n,comp=y
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
दानवास् दानव pos=n,g=m,c=1,n=p
तारका तारका pos=n,comp=y
मये मय pos=a,g=n,c=7,n=s