Original

दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् ।विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् ॥ ३१ ॥

Segmented

दृष्ट्वा च एनम् महा-राज गदया अभिनिपीडितम् विचेष्टन्तम् यथा नागम् मूर्च्छया अभिपरिप्लुतम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गदया गदा pos=n,g=f,c=3,n=s
अभिनिपीडितम् अभिनिपीडय् pos=va,g=m,c=2,n=s,f=part
विचेष्टन्तम् विचेष्ट् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
मूर्च्छया मूर्छा pos=n,g=f,c=3,n=s
अभिपरिप्लुतम् अभिपरिप्लु pos=va,g=m,c=2,n=s,f=part