Original

असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् ।नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः ॥ ६ ॥

Segmented

असज्जन्त ततो वीरा वीरेषु एव पृथक् पृथक् नागा नागैः समाजग्मुः तुरगाः सह वाजिभिः

Analysis

Word Lemma Parse
असज्जन्त सञ्ज् pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
वीरा वीर pos=n,g=m,c=1,n=p
वीरेषु वीर pos=n,g=m,c=7,n=p
एव एव pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
नागा नाग pos=n,g=m,c=1,n=p
नागैः नाग pos=n,g=m,c=3,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
तुरगाः तुरग pos=n,g=m,c=1,n=p
सह सह pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p