Original

प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः ।वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ॥ ५ ॥

Segmented

प्रादीप्यन्त दिशः सर्वाः प्रदीपैः तैः समन्ततः वर्षा-प्रदोषे खद्योतैः वृता वृक्षा इव आबभुः

Analysis

Word Lemma Parse
प्रादीप्यन्त प्रदीप् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रदीपैः प्रदीप pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
वर्षा वर्षा pos=n,comp=y
प्रदोषे प्रदोष pos=n,g=m,c=7,n=s
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
वृता वृ pos=va,g=m,c=1,n=p,f=part
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
आबभुः आभा pos=v,p=3,n=p,l=lit