Original

पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुद्रुहाणि ।दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे ॥ २१ ॥

Segmented

पीतानि शस्त्राणि असृज्-उक्षितानि वीर-अवधूतानि तनु-द्रुहानि दीप्ताम् प्रभाम् प्राजनयन्त तत्र तपात्यये विद्युद् इव अन्तरिक्षे

Analysis

Word Lemma Parse
पीतानि पा pos=va,g=n,c=1,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
असृज् असृज् pos=n,comp=y
उक्षितानि उक्ष् pos=va,g=n,c=1,n=p,f=part
वीर वीर pos=n,comp=y
अवधूतानि अवधू pos=va,g=n,c=1,n=p,f=part
तनु तनु pos=n,comp=y
द्रुहानि द्रुह pos=a,g=n,c=1,n=p
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
प्राजनयन्त प्रजनय् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तपात्यये तपात्यय pos=n,g=m,c=7,n=s
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s