Original

ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः ।प्रहरध्वमितः सर्वे मम गात्रे महारथाः ।स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ॥ १६ ॥

Segmented

ततो ऽब्रवीत् स कैकेयान् पाञ्चालान् गौतमीसुतः प्रहरध्वम् इतः सर्वे मम गात्रे महा-रथाः स्थिरीभूताः च युध्यध्वम् दर्शयन्तो अस्त्र-लाघवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
कैकेयान् कैकेय pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
गौतमीसुतः गौतमीसुत pos=n,g=m,c=1,n=s
प्रहरध्वम् प्रहृ pos=v,p=2,n=p,l=lot
इतः pos=va,g=m,c=1,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=8,n=p
स्थिरीभूताः स्थिरीभू pos=va,g=m,c=1,n=p,f=part
pos=i
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
दर्शयन्तो दर्शय् pos=va,g=m,c=1,n=p,f=part
अस्त्र अस्त्र pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s