Original

यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः ।न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥ ६३ ॥

Segmented

यावत् नः पश्यमानानाम् प्राणान् पार्थेन संगतः न जह्यात् पुरुष-व्याघ्रः तावत् वारय कौरवम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
नः मद् pos=n,g=,c=6,n=p
पश्यमानानाम् पश् pos=va,g=m,c=6,n=p,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
वारय वारय् pos=v,p=2,n=s,l=lot
कौरवम् कौरव pos=n,g=m,c=2,n=s