Original

अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् ।सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥ ४९ ॥

Segmented

अश्वान् च चतुरो भल्लैः अनयद् यम-सादनम् सारथेः च शिरः कायाद् अहरत् शत्रु-तापनः

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s
pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अहरत् हृ pos=v,p=3,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s