Original

ततस्तु शरवर्षेण पार्थिवास्तमवारयन् ।धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ।अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥ २० ॥

Segmented

ततस् तु शर-वर्षेण पार्थिवाः तम् अवारयन् धनूंषि ते विधुन्वानाः शतशो ऽथ सहस्रशः अयोधयन्त राधेयम् शक्रम् दैत्य-गणाः इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अवारयन् वारय् pos=v,p=3,n=p,l=lan
धनूंषि धनुस् pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
विधुन्वानाः विधू pos=va,g=m,c=1,n=p,f=part
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
अयोधयन्त योधय् pos=v,p=3,n=p,l=lan
राधेयम् राधेय pos=n,g=m,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i