Original

तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे ।वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ।चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥ २९ ॥

Segmented

तस्मिन् विनिहते च अस्त्रे भारद्वाजो युधिष्ठिरे वारुणम् याम्यम् आग्नेयम् त्वाष्ट्रम् सावित्रम् एव च चिक्षेप परम-क्रुद्धः जिघांसुः पाण्डु-नन्दनम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
विनिहते विनिहन् pos=va,g=n,c=7,n=s,f=part
pos=i
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
वारुणम् वारुण pos=a,g=n,c=2,n=s
याम्यम् याम्य pos=a,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
त्वाष्ट्रम् त्वाष्ट्र pos=a,g=n,c=2,n=s
सावित्रम् सावित्र pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s