Original

ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः ।जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली ॥ १८ ॥

Segmented

ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः जघान भीमम् नाराचैः तम् अपि अभि अवधीत् बली

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृषरथो वृषरथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
भीमम् भीम pos=n,g=m,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अभि अभि pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
बली बलिन् pos=a,g=m,c=1,n=s