Original

संजय उवाच ।द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा ।द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥ १ ॥

Segmented

संजय उवाच द्रुपदस्य आत्मजान् दृष्ट्वा कुन्तिभोज-सुतान् तथा द्रोणपुत्रेण निहतान् राक्षसान् च सहस्रशः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
कुन्तिभोज कुन्तिभोज pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
तथा तथा pos=i
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i