Original

अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् ।द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः ॥ ५४ ॥

Segmented

अथ दृष्ट्वा हतम् पुत्रम् अश्वत्थाम्ना महा-बलम् द्रौणेः सकाशम् अभ्येत्य रोषात् प्रचलित-अङ्गदः

Analysis

Word Lemma Parse
अथ अथ pos=i
दृष्ट्वा दृश् pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
रोषात् रोष pos=n,g=m,c=5,n=s
प्रचलित प्रचल् pos=va,comp=y,f=part
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s