Original

प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः ।कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥ ७ ॥

Segmented

प्रविश्य स महा-इष्वासः पाञ्चालान् अरि-मर्दनः कथम् नु पुरुष-व्याघ्रः पञ्चत्वम् उपजग्मिवान्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part