Original

ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः ।ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् ।स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ॥ २३ ॥

Segmented

ततः शत्रु-रथम् त्यक्त्वा भीमो ध्रुव-रथम् गतः ध्रुवम् च अस्यन्तम् अनिशम् मुष्टिना समपोथयत् स तथा पाण्डु-पुत्रेण बलिना निहतो ऽपतत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत्रु शत्रु pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
ध्रुव ध्रुव pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुव pos=n,g=m,c=2,n=s
pos=i
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
अनिशम् अनिशम् pos=i
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
समपोथयत् सम्पोथय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽपतत् पत् pos=v,p=3,n=s,l=lan