Original

नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह ।सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् ॥ ३९ ॥

Segmented

नागेभ्यः पतितान् अन्यान् कल्पितेभ्यो द्विपैः सह सिंहान् वज्र-प्रणुन्नेभ्यः गिरि-अग्रेभ्यः इव च्युतान्

Analysis

Word Lemma Parse
नागेभ्यः नाग pos=n,g=m,c=5,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
अन्यान् अन्य pos=n,g=m,c=2,n=p
कल्पितेभ्यो कल्पय् pos=va,g=m,c=5,n=p,f=part
द्विपैः द्विप pos=n,g=m,c=3,n=p
सह सह pos=i
सिंहान् सिंह pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
प्रणुन्नेभ्यः प्रणुद् pos=va,g=n,c=5,n=p,f=part
गिरि गिरि pos=n,comp=y
अग्रेभ्यः अग्र pos=n,g=n,c=5,n=p
इव इव pos=i
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part