Original

तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् ॥ १९ ॥

Segmented

तस्मिन्न् आकुल-संग्रामे वर्तमाने महा-भये मन्द-रश्मिः सहस्रांशुः अस्तम् गिरिम् उपागमत्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
आकुल आकुल pos=a,comp=y
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=m,c=7,n=s
मन्द मन्द pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun