Original

द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः ।निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ।काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥ ७२ ॥

Segmented

द्रौणि च कृतवर्मा च तथा एव अन्ये महा-रथाः निर्जिता धनुषा एकेन शतशः क्षत्रिय-ऋषभाः काङ्क्षता पर-लोकम् च धर्मराजस्य च प्रियम्

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
धनुषा धनुस् pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
शतशः शतशस् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
काङ्क्षता काङ्क्ष् pos=va,g=m,c=3,n=s,f=part
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s