Original

अलमेष महाबाहुः कर्णायैको हि पाण्डव ।किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥ ३२ ॥

Segmented

अलम् एष महा-बाहुः कर्णाय एकः हि पाण्डव किम् पुनः द्रौपदेयाभ्याम् सहितः सात्वत-ऋषभः

Analysis

Word Lemma Parse
अलम् अलम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कर्णाय कर्ण pos=n,g=m,c=4,n=s
एकः एक pos=n,g=m,c=1,n=s
हि हि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
द्रौपदेयाभ्याम् द्रौपदेय pos=n,g=m,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
सात्वत सात्वत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s