Original

तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनंजयः ।द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥ ८० ॥

Segmented

तथा एव तान् प्रत्यविध्यत् कुन्ती-पुत्रः धनंजयः द्रोणपुत्रम् चतुःषष्ट्या मद्र-राजम् शतेन च

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
pos=i