Original

एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् ।आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ।अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ॥ ७४ ॥

Segmented

एतस्मिन्न् अन्तरे राजन् दृष्ट्वा कर्णस्य विक्रमम् आकर्ण-मुक्तैः इषुभिः कर्णस्य चतुरो हयान् अनयत् मृत्यु-लोकाय चतुर्भिः सायक-उत्तमैः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
आकर्ण आकर्ण pos=a,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
इषुभिः इषु pos=n,g=m,c=3,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
अनयत् नी pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सायक सायक pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p