Original

फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे ।सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥ ६३ ॥

Segmented

फल्गुनः तु महा-बाहुः कर्णम् वैकर्तनम् रणे सायकानाम् शतेन एव सर्व-मर्मसु अताडयत्

Analysis

Word Lemma Parse
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan