Original

चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः ।अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥ ३ ॥

Segmented

चोदय अश्वान् भृशम् कृष्ण यतो राजा जयद्रथः अस्तम् एति महा-बाहो त्वरमाणो दिवाकरः

Analysis

Word Lemma Parse
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
भृशम् भृशम् pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यतो यतस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s