Original

मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि ।द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥ १२ ॥

Segmented

मयि जीवति राज-इन्द्र न भयम् कर्तुम् अर्हसि द्रोणाद् अस्त्रभृताम् श्रेष्ठात् सर्व-शस्त्रभृताम् अपि

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
भयम् भय pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अस्त्रभृताम् अस्त्रभृत् pos=n,g=m,c=6,n=p
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
अपि अपि pos=i