Original

तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष ।प्रसादयन्महादेवममर्षवशमास्थितः ॥ १५ ॥

Segmented

तद्-अवस्थः कृतः तेन सोमदत्तो ऽथ मारिष प्रसादयन् महादेवम् अमर्ष-वशम् आस्थितः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अवस्थः अवस्था pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्रसादयन् प्रसादय् pos=va,g=m,c=1,n=s,f=part
महादेवम् महादेव pos=n,g=m,c=2,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part