Original

एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः ।युयुधानं परित्यज्य रणे प्रायमुपाविशत् ॥ १६ ॥

Segmented

एवम् उक्त्वा महा-बाहुः यूपकेतुः महा-यशाः युयुधानम् परित्यज्य रणे प्रायम् उपाविशत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
यूपकेतुः यूपकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
रणे रण pos=n,g=m,c=7,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan