Original

अन्वागतं वृष्णिवरं समीक्ष्य तथारिमध्ये परिवर्तमानम् ।घ्नन्तं कुरूणामिषुभिर्बलानि पुनः पुनर्वायुरिवाभ्रपूगान् ॥ २० ॥

Segmented

अन्वागतम् वृष्णि-वरम् समीक्ष्य तथा अरि-मध्ये परिवर्तमानम् घ्नन्तम् कुरूणाम् इषुभिः बलानि पुनः पुनः वायुः इव अभ्र-पूगान्

Analysis

Word Lemma Parse
अन्वागतम् अन्वागम् pos=va,g=m,c=2,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
तथा तथा pos=i
अरि अरि pos=n,comp=y
मध्ये मध्ये pos=i
परिवर्तमानम् परिवृत् pos=va,g=m,c=2,n=s,f=part
घ्नन्तम् हन् pos=va,g=m,c=2,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
बलानि बल pos=n,g=n,c=2,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p