Original

तैः कायमस्याग्न्यनिलप्रभावैर्विदार्य बाणैरपरैर्ज्वलद्भिः ।आजघ्निवांस्तान्रजतप्रकाशानश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥ १६ ॥

Segmented

तैः कायम् अस्य अग्नि-अनिल-प्रभावैः विदार्य बाणैः अपरैः ज्वलद्भिः आहन् तान् रजत-प्रकाशान् अश्वान् चतुर्भिः चतुरः प्रसह्य

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
कायम् काय pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अग्नि अग्नि pos=n,comp=y
अनिल अनिल pos=n,comp=y
प्रभावैः प्रभाव pos=n,g=m,c=3,n=p
विदार्य विदारय् pos=vi
बाणैः बाण pos=n,g=m,c=3,n=p
अपरैः अपर pos=n,g=m,c=3,n=p
ज्वलद्भिः ज्वल् pos=va,g=m,c=3,n=p,f=part
आहन् आहन् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
रजत रजत pos=n,comp=y
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
प्रसह्य प्रसह् pos=vi