Original

ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः ।शलभानामिव व्राताः शराः कर्णसमीरिताः ॥ २९ ॥

Segmented

ते व्योम्नि रत्न-विकृताः व्यकाशन्त सहस्रशः शलभानाम् इव व्राताः शराः कर्ण-समीरिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
रत्न रत्न pos=n,comp=y
विकृताः विकृ pos=va,g=m,c=1,n=p,f=part
व्यकाशन्त विकाश् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
व्राताः व्रात pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,comp=y
समीरिताः समीरय् pos=va,g=m,c=1,n=p,f=part