Original

ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत ।मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ २० ॥

Segmented

ततः क्रुद्धः शरान् अस्यन् सूतपुत्रो व्यरोचत मध्यन्दिन-गतः ऽर्चिष्माञ् शरदि इव दिवाकरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
मध्यन्दिन मध्यंदिन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽर्चिष्माञ् अर्चिष्मत् pos=a,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s