Original

ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥ २१ ॥

Segmented

ते समासाद्य कौन्तेयम् आवृण्वञ् शर-वृष्टिभिः पर्वतम् वारि-धाराभिः प्रावृषि इव बलाहकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
आवृण्वञ् आवृ pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकाः बलाहक pos=n,g=m,c=1,n=p