Original

सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत ।तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ॥ ६ ॥

Segmented

सायकानाम् ततः पार्थः त्रिषष्ट्या प्रत्यविध्यत तोत्त्रैः इव महा-नागम् कशाभिः इव वाजिनम्

Analysis

Word Lemma Parse
सायकानाम् सायक pos=n,g=m,c=6,n=p
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
त्रिषष्ट्या त्रिषष्टि pos=n,g=f,c=3,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
कशाभिः कशा pos=n,g=f,c=3,n=p
इव इव pos=i
वाजिनम् वाजिन् pos=n,g=m,c=2,n=s