Original

तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ।असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ।चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥ १८ ॥

Segmented

तस्य कर्णो महा-इष्वासः सायकान् चतुरः ऽक्षिपत् असंप्राप्तान् तु तान् भीमः सायकैः नत-पर्वभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
ऽक्षिपत् क्षिप् pos=v,p=3,n=s,l=lan
असंप्राप्तान् असंप्राप्त pos=a,g=m,c=2,n=p
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
भीमः भीम pos=n,g=m,c=1,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p