Original

कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् ।योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥ ३८ ॥

Segmented

कौरवान् सहितान् सर्वान् गोग्रह-अर्थे समागतान् यो अजयत् मत्स्य-नगरे दिष्ट्या पार्थः स जीवति

Analysis

Word Lemma Parse
कौरवान् कौरव pos=n,g=m,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गोग्रह गोग्रह pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
यो यद् pos=n,g=m,c=1,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
मत्स्य मत्स्य pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat