Original

ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् ।यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ॥ ३५ ॥

Segmented

ततः प्रमुदिताः पार्थाः परिवव्रुः युधिष्ठिरम् यथा वृत्र-वधे देवा मुदा शक्रम् महा-ऋषिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
यथा यथा pos=i
वृत्र वृत्र pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
देवा देव pos=n,g=m,c=1,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p