Original

यमाहुः सर्वपितरं वासुदेवं द्विजातयः ।अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय ॥ ३२ ॥

Segmented

यम् आहुः सर्व-पितरम् वासुदेवम् द्विजातयः अपि वा हि एष पाण्डूनाम् योत्स्यते ऽर्थाय संजय

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पितरम् पितृ pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
अपि अपि pos=i
वा वा pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
ऽर्थाय अर्थ pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s