Original

तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ।अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ॥ ३४ ॥

Segmented

तथा युधिष्ठिरो राजा भीमसेनः च पाण्डवः नकुलः सहदेवः च माद्री-पुत्रौ उभौ अपि अग्रतः सर्व-सैन्यानाम् स्थिता व्यूहस्य दंशिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
अग्रतः अग्रतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part