Original

यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा ।अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥ ६ ॥

Segmented

यदा च त्वाम् महा-बाहो गन्धर्वैः हृतम् ओजसा अमोचयत् पाण्डु-सुतः पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
हृतम् हृ pos=va,g=m,c=2,n=s,f=part
ओजसा ओजस् pos=n,g=n,c=3,n=s
अमोचयत् मोचय् pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s