Original

तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति ।अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ।भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥ २३ ॥

Segmented

तम् प्रयान्तम् नर-व्याघ्रम् भीष्मस्य शिबिरम् प्रति अनुजग्मुः महा-इष्वासाः सर्व-लोकस्य धन्विनः भ्रातरः च महा-इष्वासाः त्रिदशाः इव वासवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s