Original

अथ शब्दो महानासीत्तव सैन्यस्य भारत ।मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ १३ ॥

Segmented

अथ शब्दो महान् आसीत् तव सैन्यस्य भारत मारुत-उद्धूत-वेगस्य सागरस्य इव पर्वणि

Analysis

Word Lemma Parse
अथ अथ pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
मारुत मारुत pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
वेगस्य वेग pos=n,g=m,c=6,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s