Original

तस्मिन्पराजिते नागे पाण्डवानां महारथाः ।सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे ॥ ४९ ॥

Segmented

तस्मिन् पराजिते नागे पाण्डवानाम् महा-रथाः सिंहनादम् विनद्य उच्चैस् युद्धाय एव उपतस्थिरे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
पराजिते पराजि pos=va,g=m,c=7,n=s,f=part
नागे नाग pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
विनद्य विनद् pos=vi
उच्चैस् उच्चैस् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit