Original

तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् ।अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ।भगदत्तो महीपालः पुरंदरसमो युधि ॥ १५ ॥

Segmented

तस्मिन् रौद्रे राक्षस-इन्द्रे यदि ते हृच्छयो महान् अयम् वा गच्छतु रणे तस्य युद्धाय दुर्मतेः भगदत्तो महीपालः पुरन्दर-समः युधि

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
रौद्रे रौद्र pos=a,g=m,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
हृच्छयो हृच्छय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वा वा pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
महीपालः महीपाल pos=n,g=m,c=1,n=s
पुरन्दर पुरंदर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s