Original

तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥ २४ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य संक्रुद्धम् भीम-दर्शनम् समभ्यधावन् त्वरिताः कौरवाणाम् महा-रथाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
भीम भीम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
समभ्यधावन् समभिधाव् pos=v,p=3,n=p,l=lan
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p