Original

तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥ १७ ॥

Segmented

तम् प्रत्यविध्यद् दशभिः भीमसेनः शिलीमुखैः त्वरमाणो महा-इष्वासः सव्ये पार्श्वे महा-बलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सव्ये सव्य pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s