Original

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ॥ १९ ॥

Segmented

नाना रूपाणि शस्त्राणि विसृजन्तो महा-रथाः अन्योन्यम् अभिधावन्तः संप्रहारम् प्रचक्रिरे व्यतिषक्तम् महा-रौद्रम् युद्धम् भीरु-भय-आवहम्

Analysis

Word Lemma Parse
नाना नाना pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
विसृजन्तो विसृज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावन्तः अभिधाव् pos=va,g=m,c=1,n=p,f=part
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
व्यतिषक्तम् व्यतिषञ्ज् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीरु भीरु pos=a,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s