Original

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे ।युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ ३२ ॥

Segmented

रथाः तु रथिन् तूर्णम् प्रेषिताः परम-आहवे युगैः युगानि संश्लिष्य युयुधुः पार्थिव-ऋषभाः

Analysis

Word Lemma Parse
रथाः रथ pos=n,g=m,c=1,n=p
तु तु pos=i
रथिन् रथिन् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
युगैः युग pos=n,g=n,c=3,n=p
युगानि युग pos=n,g=n,c=2,n=p
संश्लिष्य संश्लिष् pos=vi
युयुधुः युध् pos=v,p=3,n=p,l=lit
पार्थिव पार्थिव pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p