Original

अथेतरे महेष्वासाः सहसैन्या नराधिपाः ।व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥ २० ॥

Segmented

अथ इतरे महा-इष्वासाः सह सैन्याः नराधिपाः व्यूहम् तम् पूरयामासुः व्यूह-शास्त्र-विशारदाः

Analysis

Word Lemma Parse
अथ अथ pos=i
इतरे इतर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सह सह pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पूरयामासुः पूरय् pos=v,p=3,n=p,l=lit
व्यूह व्यूह pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p