Original

ततः शब्दो महानासीत्सेनयोरुभयोरपि ।निर्गच्छमानयोः संख्ये सागरप्रतिमो महान् ॥ २ ॥

Segmented

ततः शब्दो महान् आसीत् सेनयोः उभयोः अपि निर्गच्छमानयोः संख्ये सागर-प्रतिमः महान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सेनयोः सेना pos=n,g=f,c=6,n=d
उभयोः उभय pos=a,g=f,c=6,n=d
अपि अपि pos=i
निर्गच्छमानयोः निर्गम् pos=va,g=f,c=6,n=d,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
सागर सागर pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s